गणपती स्तोत्र ( संकटनाशन स्तोत्र )
गणपती स्तोत्र ( संकटनाशन स्तोत्र ) प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् भक्तावासं स्मरेन्नित्यम् आयुष्कामार्थसिद्धये ॥१॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम् ॥२॥ लम्बोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाष्टकम् ॥३॥ नवमं भालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥ द्वादशेतानि नामानि त्रिसंध्यं यः पठेन्नर: न च विघ्नभयं तस्य सर्वसिद्धीकरः प्रभो ॥५॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥ जपेद्गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् संवत्सरेण सिद्धीं च लभते नात्र संशयः ॥७॥ अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥८॥ इति श्रीनारदपुराणे सङ्कटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम्||